|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.176. अध्यायः 176
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युदिष्ठिरंप्रति हिंसाया मांसभक्षणस्य च गर्हणम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
वैशम्पायन उवाच।
ततो युधिष्ठिरो राजा शरतल्पे पितामहम्।
पुनरेव महाराज पप्रच्छ वदतांवरः॥ 13-176-1(88454)
युधिष्ठिर उवाच। 13-176-2x(7379)
ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते।
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात्॥ 13-176-2(88455)
कर्मणा न नरः कुर्वन्हिंसां पार्थिवसत्तम।
वाचा च मनसा चैवं ततो दुःखात्प्रमुच्यते॥ 13-176-3(88456)
भीष्म उवाच। 13-176-4x(7380)
चतुर्विधेयं निर्दिष्टा ह्यहिंसा ब्रह्मवादिभिः।
एकैकतोऽपि विभ्रष्टा न भवत्यरिसूदन॥ 13-176-4(88457)
यथा सर्वश्चतुष्पाद्वै त्रिभिः पादैर्न तिष्ठति।
तथैवेयं महीपाल कारणैः प्रोच्यते त्रिभिः॥ 13-176-5(88458)
यथा नागपदेऽन्यानि पदानि पदगामिनाम्।
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे॥ 13-176-6(88459)
एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः पुरा।
कर्म्णा लिप्यते जन्तुर्वाचा च मनसाऽपि च॥ 13-176-7(88460)
पूर्वं तु मनसा त्यक्त्वा त्यजेद्वाचाऽथ कर्मणा।
`हिंसां तु नोपयुञ्जीत तथा हिंसा चतुर्विधा॥ 13-176-8(88461)
काये मनसि वाक्येऽपि दोषा ह्येते प्रकीर्तिताः'।
[न भक्षयति यो मांसं त्रिविधं स विमुच्यते॥ 13-176-9(88462)
त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः।
मनो वाचि तथाऽऽस्वादे दोषा ह्येषु प्रतिष्ठिताः॥] 13-176-10(88463)
न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः।
दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे॥ 13-176-11(88464)
पुत्र मांसोपमं जानन्खादते यो विचेतनः।
मांसं मोहसमायुक्तः पुरुषः सोऽधमः स्मृतः॥ 13-176-12(88465)
पितृमातृसमायोगे पुत्रत्वं जायते यथा।
हिंसां कृत्वाऽवशः पापो भूयिष्ठं जायते तथा॥ 13-176-13(88466)
रसश्च हृदि जिह्वाया ज्ञानं प्रज्ञायते यथा।
तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत्॥ 13-176-14(88467)
संस्कृतासंस्कृताः पक्वा लवणालवणास्तथा।
प्रजायन्ते यथा भावास्तथा चित्तं निरुध्यते॥ 13-176-15(88468)
भेरीमृदङ्गशब्दांश्च तन्त्रीशब्दांश्च पुष्कलान्।
निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः॥ 13-176-16(88469)
`परेषां धनधान्यानां हिसकाः स्तावकास्तथा।
प्रशंसकाश्च मांसस्य नित्यं स्वर्गे बहिष्कृताः॥' 13-176-17(88470)
अचिन्तितमनिर्दिष्टमसङ्कल्पितमेव च।
रसगृद्ध्याऽभिभूता ये प्रशंसन्ति फलार्थिनः॥ 13-176-18(88471)
प्रशंसा ह्येव मांसस्य दोषकल्पफलान्विता॥ 13-176-19(88472)
`भस्म विष्ठा कृमिर्वाऽपि निष्ठा यस्येदृशी ध्रुवा।
स कायः परपीडाभिः कथं धार्योविपश्चिता॥' 13-176-20(88473)
जीवितं हि परित्यज्य बहवः साधवो जनाः।
स्वमांसैः परमांसानि परिपाल्य दिवं गताः॥ 13-176-21(88474)
एवमेषा महाराज चतुर्भिः कारणैः स्मृता।
अहिंसा तव निर्दिष्टा सर्वधर्मानुसंहिता॥ ॥ 13-176-22(88475)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः॥ 176 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-176-4 मनसा वचसा कर्मणा भक्षणेनेति चतुर्विधा हिंसा। तत्र एकेन त्यक्ता सर्वात्मना त्यक्ता न भवति॥ 7-176-6 नागपदे गजपदे क्षुद्रपदानामिव सर्वेषां धर्माणां समावेशो भवति अहिंसायाम्। कौञ्जरे पदे दत्ते सति सर्वाणि पदानि यथा पिधीयन्ते एवं हिंसायां सर्वे धर्माः पिधीयन्ते॥ 7-176-13 यथा त्रीपुंयोगे नान्तरीयकं पुत्रजन्म एवं हिंसकस्य भूयिष्ठं पापयोनौ जन्मेत्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|